संस्कृतम्

संस्कृतम् The page dedicated to all Sanskrit shastras. " सर्वत्राSSस्ति च संस?

28/06/2016

व्यासः महाभारतं कृत्वा अचिन्तयत् -- "कथं शिष्यान् अध्यापयानि" इति । तदा लोकगुरुः ब्रह्मा स्वयं तत्र आजगाम । तं दृष्ट्वा विस्मितः व्यासः आसनं कल्पयामास । अनुज्ञातः सन् आसनाभ्याशे निषसाद, उवाच च -- "भगवन् ! मया परमपूजितं काव्यं इदं कृतं, परं न कश्चित् लेखकः विद्यते " इति । तदा ब्रह्मा उवाच -- "काव्यस्य लेखनार्थं गणेशः स्मर्यताम्" इति ।
ततः व्यासः हेरम्बं सस्मार । स्मृतमात्रः गणेशः तत्र आजगाम यत्र वेदव्यासः स्थितः । पूजितः तथा उपविष्टः सन्, गणेशः व्यासेन उक्तः -- "गणनायक ! भारतस्य लेखको भव" इति । एतत् श्रुत्वा, विघेशः प्राह -- "यदि लिखतः मे लेखनी क्षणं न अवतिष्ठेत, तदा अहं लेखकः स्याम्" इति । व्यासोऽपि तं देवम् उवाच -- "अबुद्ध्वा मा क्वचित् लिख" इति । "ॐ" इति उक्त्वा गणेशः लेखकः बभूव ।
अतः मुनिः तदा तदा गूढं ग्रन्थग्रन्थिं चक्रे । गणेशः सर्वज्ञोऽपि तदा क्षणं विचारयन् आस्ते । तावत् व्यासोऽपि अन्यान् बहून् श्लोकान् चकार ll

!!!---: नारी-महिमा :---!!!=====================अस्माकं भारतवर्षे नारी समाजस्य स्थानम् अति महत्त्वपूर्णं वर्तते । ऐतरेयोप...
25/06/2016

!!!---: नारी-महिमा :---!!!
=====================

अस्माकं भारतवर्षे नारी समाजस्य स्थानम् अति महत्त्वपूर्णं वर्तते । ऐतरेयोपनिषदि "सा भावयित्री भावयितव्या भवति" अस्य मन्त्रस्य अयम् आशयः यत् नारी नरस्य गर्भे अपि भावयित्री पुरुषस्य एकः अहं बहुस्याम् इति इमाम् इच्छाम् अनुकूलयन्ती भावयन्ती च गर्भस्थं पुमांसं भावयति पोषयति पालयति अत एव सा मातृशक्तिकूपा पूजनीया च भवति ।

भारतीय-इतिवृत्ते यदा यदा पुरुषशक्तिः पराजिता भवति, तदा मातृशक्तिः सुसंघटिता मानवसमाजं विपद्भ्यः रक्षोगणेभ्यः रक्षति । अस्य उदाहरणं मार्कण्डेय पुराणे प्राप्यते । यदा महिषासुरनामधेयेन असुरेण सर्वे देनाः सुसमृद्धा मानवाश्च पराजिताः तदैव मातृशक्तिः सुसंघिटा ससैन्यं महिषासुरं महारणे हत्वा समाजं सुव्यवस्थितं प्रत्यस्थापयत् ।।

कलियुगे अपि महाराज्ञी लक्ष्मीबाई उद्दण्ड-गुरुण्ड-गजगण्डस्थलानि रणमण्डले स्वकीयेन विकरालेन करवालेन भिन्दन्ती शत्रून् पराजित्य वीरगतिं प्राप्य अद्यापि सर्वगं शास्ति । तस्याः चरितेन चास्माकं मनोबलं वर्धते ।

जीजाबाई. अहिल्याबाई इति द्वे बहुश्रुते वीरांगने बभूवतुः इति को न जानाति । तयोः गुरुगौरवेण अस्माकं शिरांसि उन्नतिं भजन्ते । इतः कस्य वा सचेतसः चेतः अपरिचितम् अस्ति यत् स्वाधीनता संग्रामे जलियाँवाला इति आख्य-उद्याने रमणीयाम् अपि उपवनश्रियं भीषणतां नयन्त्यः चण्डिका इव प्रचण्डशौर्येण अहमहमिकया नरपिशाचानां गौरांगानाम् आग्नेय-अस्त्राणि अपि वीरगतिं गच्छन्त्यः स्वरुधिरवर्षया अशमयन् । यासां यशोराशिः आचन्द्रतारकं निखिलम् अचलामण्डलं प्रकाशयिष्यति ।

याः स्वातन्त्र्यरणे युद्धवीरान् पुरुषान् अपि पृष्ठतः कृत्वा गौरांगशासकान् चेतांसि विस्मायपयन्त्यः स्वातन्त्र्यरणस्य भीषणताम् असह्यताम् च प्रादर्शयन् । तासामेव महामहनीय-महिलानां त्यागेन अद्य वयं स्वतन्त्रतां भजामः । कथनस्य अयम् आशयः यत् स्वतन्त्रता-संग्रामे सम्माननीय-महिलानां सहयोगेन एव वयं स्वतन्त्राः अभवाम । स्वतन्त्रतायां च सम्प्राप्तायां शासनसंचालने अपि मातृशक्तिः महत्त्वपूर्णं स्थानं पश्यामः ।

यथा विजयलक्ष्मीपण्डिता कूटनीतेः आदर्शम् अस्माकं पुरस्तात् अस्थापयत् । एवमेव अरुणा आसफ अलि महाभागा अपि समाजवादि-शासनपद्धतिम् आजीवनं भारतीयान् अशिक्षयत् । एवमेव सुचेता कृपलानी महाभागा अपि प्रशासन-व्यवस्थायां स्वकीयम् अप्रतिमं पाण्डित्यं प्रादर्शयत् । एवमेव सत्याम् अपि राजनैतिक-प्रतिद्वन्द्वितायां भारतीय-प्रधानमन्त्रि पदमलंकुवाणा देशस्य सर्वांगीण समुन्नतये स्वकीयं जीवनं समर्पयन्ती प्रियदर्शिनी इन्दिरागन्धिमहोदया पोकरणे पारमाण्विकं विस्फोटं कृत्वा भारतम् अपि परमाणुशक्ति-सम्पन्नम् अघोषयत् । महाशक्त्यः अपि विरोधं कर्तुम् नैव अशक्नुवन् ।

सिक्किमदेशम् अपि प्रेम्णा राजनैतिकदूरदृष्ट्य भारतसंघराज्ये अमेलयत् । पाकिस्तानं च भारतेन सह अकारण-शत्रुतां कुर्वन्तं अमेरिकाबलं प्राप्य युद्धोन्मादग्रस्तं क्रीडया एव पराजित्य द्विधा अभिन्दत् यतः बंगलादेश-आख्यराष्ट्रं नूतनम् एव समुदितम् । अधुना अपि प्रान्तीय शासनेषु केन्द्रीय-शासने च बह्व्यः नार्यः भारतीय-शासन-आकाशे देदीप्यमान-नक्षत्राणि इव शासनं संचालयन्ति । सुषमा स्वराज महाभागा अपि अस्य़ उदाहरणं वर्तते ।

अस्य देशस्य सर्वांगीणविकासे समभागिन्यः महिलाः अधुना अपि सर्वथा सम्माननीयाः राष्ट्रनिर्माणे सर्वेषु क्षेत्रेषु तासाम् अपि सहयोगी ग्रहीतव्यः । देशस्य सर्वांगीणविकासे ताः कथम् अपि नोपेक्षणीयाः । नरनार्योः जीवने समानं स्थानम् अस्ति । इति अयं सिद्धान्तः अक्षरशः अनुपालनीयः अस्माभिः ।

25/06/2016
।।श्रीमते रामानुजाय नमः।।ईश्वरः -----श्री रामानुजमतम्-------------जीवानां नियन्ता, जीवान्तर्यामी, जीवातिरिक्तः ईश्वरः अस...
14/06/2016

।।श्रीमते रामानुजाय नमः।।

ईश्वरः
-----

श्री रामानुजमतम्
-------------

जीवानां नियन्ता, जीवान्तर्यामी, जीवातिरिक्तः ईश्वरः अस्ति।जीववर्गः जडवर्गः च तस्य शरीरम्।अयं जीवकर्मफलदाता ईश्वरः ज्ञानस्वरूपःच ज्ञानगुणस्य आश्रयः च।जीवः स्वशरीरस्य नियन्त्रणे परतन्त्रः,परम् ईश्वरः जीवनियन्त्रणे स्वतन्त्रः, परिपूर्णशक्तिकत्वात्। यथा शरीरान्तर्गतः जीवः यथाकथञ्चित् शरीरं नियमयति, तथा जीवान्तर्गतः ईश्वरः जीवान् नियमयति, स्वातन्त्र्येण।यदृच्छया जीवान् नियमयितुं शक्तः ईश्वरः, तथापि सः जीवकृतकर्मानुसारम् एव तान् नियमयति। ’ बहु स्याम् ’ इति सङ्कल्परूपेण ईश्वरः जगतः निमित्तकारणम्।चिदचिद्विशिष्टः ईश्वरः जगतः उपादानकारणम्।ज्ञानशक्त्यादि-विशिष्टः ईश्वरः जगतः सहकारिकारणम्।अनन्तकल्याणगुणाश्रयः ईश्वरः चिदचिद्विशिष्टः।स तु जीवान्तर्यामी।जीवः परतन्त्रः ईशः स्वतन्त्रः।ईशः स्वशरीरं चिद्रूपं स्वदेहं नियमयति तथा अचिद्रूपं देहमपि नियमयति।मुक्तौ अपि जीवस्य विशिष्टमद्वैतं विद्यते ईश्वरेण सह, न तु केवलाद्वैतम्।

gaayatriiगायत्री {@गाय(त्त्री)त्री@}¦ स्त्री गायन्तं त्रायते त्रै--क, गीयतेऽनेनगै--घञ् यण् नि० ह्रस्वः गयः प्राणस्त त्रा...
02/06/2016

gaayatrii
गायत्री {@गाय(त्त्री)त्री@}¦ स्त्री गायन्तं त्रायते त्रै--क, गीयतेऽनेनगै--घञ् यण् नि० ह्रस्वः गयः प्राणस्त त्रायते त्रै-क वा . षडक्षरपादके छन्दोभेदे“ उक्ताऽत्युक्तातथा मध्या प्रतिष्ठाऽन्या सुपूर्विका . गायत्र्युष्णिगमुष्टुप्च वृहती पङ्क्तिरेव च” वृ० र० . अस्याः पादे लघुगुरु-भेदनिवेशनभेदात् चतुःषष्टिर्भेदाः . तेषां मध्ये भेद-त्रयस्य विशेषनामानि तनुमध्या शशिवदना वसुमतीतितत्रोक्तानि . इतरभेदानां तु विशेषनामाभावेऽपिऋग्वेदादौ बाहुल्येनोदाहरणात् तेषां गायत्रीछन्द-स्कत्वम् . इयांस्तु भेदः लौकिकच्छन्दसि षडक्षरपादेनचतुश्चरणता वेदे अष्टाक्षरपादत्वेन त्रिपादतया समष्ट्याचतुर्विंशाक्षरता . यथा“ अग्निमीले पुरोहितम्यज्ञस्य देवतमृत्विजम् . होतार रत्नधातमम्” इत्यादौअतएव कात्या० सर्वानुक्रगणिकायां ५ अ०“ अथ छन्दांसिगायत्र्युष्णिगनुष्टुब्वृहतीत्यादिना छन्दोनामान्यभि-धाय चतुर्विंशात्यक्षरादीनि चतुरुत्तराणीति गायत्र्या-दीनां समष्ट्यक्षरसंख्यामुक्त्वा“ प्रथमं छन्दस्त्रिपदा गा-यत्री” इति सा लक्षिता . तेनाष्टक्षरपादतया त्रिपादत्वेचतुर्विंशाक्षरता इति . अनादेशे च सर्वासां गायत्रीच्छ-न्दस्कानामृचामग्निदेवता“ अथात्र च्छन्दोदेवता गायत्र्याअग्निः” इति तत्रोक्तेः गायत्रीच्छन्दसश्च यथाऽष्टाक्षर-पादता तथा ता० व्रा० भाष्ययोर्दर्शितम् .(“ साध्या वै नाम देवा आसंस्ते सर्वे यज्ञेन सहस्वर्गलोकमायंस्ते देवाश्छन्दांस्यक्रुवन् सोममाहरतेतिते जगती प्राहिण्वन् सा त्रीण्यक्षराणि हित्वैका-क्षरा भूत्वागच्छत्, त्रिष्टुभं प्राहिण्वन् सैकमक्षरं हित्वात्र्यक्षरा भूत्वागच्छद् गायत्रीं प्राहिण्वंश्चतुरक्षराणिवै तर्हि छन्दांस्यासन् सा तानि चाक्षराणि हरन्त्यागच्छदष्टाक्षरा भूत्वा” ता० ब्रा०“ पूर्वं साध्याख्या देवा आसन्ते सर्वे यज्ञेन सोपकरणेन सोमादिसाधनमादायैवस्वर्गं लोकमायन्नगमन् ते प्रसिद्धा वस्वादयो देवाः आदौस्वर्गसाधनयज्ञार्थसोमहरणाय छन्दांसि गायत्र्यादीनि“ यूयं सोमं द्युलोकात् आहरत” इत्युक्तवन्तः तान्यपितथैवाङ्गीचक्रुरिति शेषः तथोक्तास्ते जगतीं प्राहिण्वन्अप्रैरयन् सा तत्रत्यैः सोमपालैः सह युद्धा त्रीण्यक्ष-राणि हित्वा एकाक्षरा भूत्वा पुनर्देवानागच्छत् चतुरु-[Page2579-b+ 38] त्तराणि वै तर्हि छन्दांसि वक्ष्यति तदभिप्रायकमिदं पु-नस्ते त्रिष्टुभं प्राहिण्वन् सापि पूर्ववत् सोमपालेष्येक-मक्षरं हित्वा त्र्यक्षरा भूत्वा पुनरागच्छत् ते पुनर्गायत्रींप्राहिण्वन् छन्दांसि सर्वाणि चतुरुत्तराण्यासन् अतःसा गायत्री द्युलोके सोमरक्षकैः कृष्णप्रभृतिभिर्जितानिजगतीत्रिष्टुभोश्चतुरक्षराणि हरन्ती अष्टाक्षरा भूत्वाआगच्छत्” भा० .२ गायत्रीछन्दस्के उपनयनाङ्गे गन्त्रभेदे च .छन्दःशास्त्रे षडक्षरपादं हि कन्दो गायत्रीशब्देनो-च्यते . सर्ववेदेऽपि षडक्षरयुक्तपादकाबहवोमन्त्राः सन्ति .सर्वेऽपि ते गायत्रीरूपतया वक्तुं शक्यन्ते . किन्तु यथा,“ पङ्काज्जायते” इति व्युत्पत्त्या पङ्कजशब्दः पङ्कज-निकर्तृत्वयुक्तस्य पद्मस्यैव बोधकः पङ्कजातानामन्येषांकुमुदादीनामबोधकः, एवं गायत्रीशब्दोऽपि योगरूढ्या-मन्त्रभेदस्येव बोधकः . वस्तुवोऽन्यव्युत्पत्तिमत्त्वेना-स्या मन्त्रमेदवोधकत्वम् . यथाह, व्यासः“ गायन्तंत्रायते यस्मात् गायत्रीयं ततः स्मृता” .स्वोपासकत्राणकर्त्तृब्रह्मप्रतिपादकतयाऽपि उक्तमन्त्रविशेषएव गायत्रीरूपतयोच्यते . यद्यपि गायत्र्याः षडक्षर-पादतया चतुर्षु चरणेषु २४ चतुर्विंशत्यक्षरावशक्यत्वंकिन्तु, अन्यगायत्रीच्छन्दस्कानां मन्त्राणामिवास्मिन् २४चतुर्विंशत्यक्षराभावस्तथापि द्यौरित्यत्रेव वरेण्यपदेवर्णविश्लेषेण २४ चतुर्विंशतिसंख्या परिपूर्य्या . वक्ष्य-माणवृहदारण्यकमाधवभाष्येच“ द्यौरित्यत्र दिऔरितिवर्णविश्लेषे सति वरेण्यमित्यत्र वरेणीअमितिवर्णविश्लेषेण व्यक्तमुक्तम् . अस्याश्च अष्टाक्षर-पादतया एकैकचरणस्य भूभ्यादिरूपता, गयनाम-प्राणत्रातृतया गायत्रीशब्दनिरुक्तिश्च वृहदारण्य-कब्राह्मणे दर्शिता यथा,“ भूमिरन्तरिक्षं द्यौरि-त्यष्टावक्षराणि, अष्टाक्षरं ह वा एकं गायत्र्ये पद-मेतदुहैवास्या एतत् स यावदेषु लोकेषु तावद्ध जयतियोऽस्या एतदेवं पदं वेत . ऋचो यजूंषि सामानीतिअष्टावक्षराणि अष्टाक्षरं वा एकं गायत्र्यै पदमेत-दुहैवास्य एतत् स यावतीयं त्रयी विद्या तावन्नजयति योऽस्या एवदेवं पदं वेद . प्राणोऽपानोव्यानः (विआनः) इत्यष्टावक्षराणि अष्टाक्षरं ह वा एकंगायत्र्यै पदमेतदुहैवास्या एयत् स यावदिदं प्राणितितद्ध जयति योऽस्या एतदेवं पदं वेद . अथास्या[Page2580-a+ 38] एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपतियद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृशे इव एषपरोरजा इति सर्वम् ह्येष रज उपर्य्युपरि तपतिएवं हैष श्रिया यशसा तपति योऽस्या एतदेवंपदं वेद . सैषा गायत्री एतस्मिंस्तुरीये दर्शते पदेपरोरजसि प्रतिष्ठितेत्यादि . तद्वैतत् सत्यं बले प्रति-ष्ठितं प्राणो वै बलं तत् प्राणे प्रतिष्ठितमित्यादि .सा हैषा गयांस्तत्रे प्राणा वै गयास्तान् प्राणांस्तत्रेयस्माद् गयांस्तत्रे तस्माद् गायत्री नाम . स यामे-वामुमन्वाहैषैव सा, स यस्मा अन्वाह तस्य प्राणांस्त्रा-यते” .“ ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्योपास-नमुक्तमथेदानीं गायत्र्युपाधिविशिष्टस्योपासनं वक्त-व्यमित्यारभ्यते सर्वच्छन्दसां हि गायत्रीच्छन्दः प्रधान-भूतं तत्प्रयोक्तृगयत्राणात् ग यत्रीति वक्ष्यति .न चान्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यंप्राणात्मभूता सा, सर्वच्छन्दसां चात्मा प्राणः,“ प्राणश्चक्षतः त्राणात् क्षत्त्रम्” इत्युक्तं प्राणश्च गायत्रीतस्मात् तदुपासनमेवं विधित्स्यते द्विजोत्तमत्वहेतुत्वाच्च“ गायत्र्या ब्राह्मणमसृजत, त्रिष्टुभा राजन्यं जगत्यावैश्यमिति” द्विजोत्तमस्य द्वितीयं जन्म गायत्री-निमित्तं तस्मात् प्रधाना गायत्री ब्राह्मण्याद्यर्था .“ यो ब्राह्मणान् अभिवदन्ति स ब्राह्मणः विपापो-विरजा विचिकित्सो ब्राह्मणो भवति” इत्युक्तेनपरमपुरुषार्थसम्बन्धं ब्राह्मणस्य दर्शयति तच्च ब्राह्वणत्वंगायत्रीजन्ममूलमतो वक्तव्यं गावत्र्याः सतत्त्वं,गायत्र्या हि यः सृष्टो द्विजोत्तमो निरङ्कुश एवोत्तमपुरुषार्थसाधनेऽधिक्रियते ततस्तन्मूलः परमपुरुषा-र्थसम्बन्धस्तस्मादेतदुपासनविधानायाह भूमिः अन्तरीक्षंद्यौः (दिऔः) इत्येतानि अष्टौ अक्षराणि, अष्टाक्षरम्अष्टावक्षराणि यस्य तदिदम् अष्टाक्षरं हवै प्रसिद्धावद्योत-चौ . एकं प्रथमं गायत्र्यै, गायत्र्याः पदं पादः प्रथमोभूम्यादिलक्षणः त्रैलोक्यात्माष्टाक्षरत्वसाम्यात् एवम् ए-तत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद तस्यैतत्फलम् स विद्वान् यावत् किञ्चिदेषु त्रिषु जेतव्यं तावत्सर्वं ह जयति योऽस्या एतदेवं पदं वेद . तथाऋचः, यजूंषि, सामानि, इति त्रयीनामाक्षराणि ए-तान्यप्यष्टावेव तथैवाष्टाक्षरं ह वा एकं गायत्र्याः द्वि-तोयम् पदं एतदुहवास्या एतद् यदृग्यजुःसामल-[Page2580-b+ 38] क्षणम् अष्टाक्षरत्वसाम्यात् एवं स यावती इयं त्रयीविद्या त्रय्या विद्यया यावत् फलजातमाप्यते तावद्धजयति योऽस्या एतत् गायत्र्यास्त्रैविद्यलक्षणं पदंवेद . तथा प्राणः, अपानः (विआनः) व्यानः एता-न्यपि प्राणाद्यभिधानाक्षराणि अष्टौ तच्च गायत्र्या-स्तृतीयं पदं यावदिदं प्राणिजातं तावद्ध जयति यो-ऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद . अथानन्तरंगायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यतेअभिधेयभूतम् . अस्याः प्रकृतायाः गायत्र्याः एतदेववक्ष्यमाणं तुरीयं दर्शतं पदम् परोरजा य एष तपतितुरीयमित्यादि वाक्यपदार्थं स्वयमेव व्याचष्टे श्रुतिः .यद् वै चतुर्थं प्रसिद्धं लोके तदिह तुरीयशब्देनाभि-घोयते . दर्शतं पदमित्यस्य कोऽर्थः? इत्युच्यतेददृश इव दृश्यत इव हि सूर्य्यमण्डलान्तर्गतः पुरुषःअतो दर्शतं पदमुच्यते . परोरजाः इत्यस्य पदस्यकोऽर्थः? इत्युच्यते सर्व्वम् समस्तम् उ हि एष मण्ड-लान्तर्गतः पुरुषः, रजः रजोजातं समस्तं लोकमि-त्यर्थः उपर्य्युपरीति वीप्सा सर्व्वलोकाधिपत्यज्ञाप-नार्था . ननु सर्व्वशब्देनैव सिद्धत्वात् वीप्सानर्थिका,नैष दोषः येषामुपरिष्टात् सविता दृश्यते तद्विषयःएव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा“ येचामुष्मात् पराञ्चो लोकास्तेषाञ्चेष्टे देवकामानञ्चेति” श्रुत्यन्तरात् तस्मात् सर्वावबोधार्था वीप्सा . यथासौसविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्यातपति एवं हैष श्रिया यशसा च तपति योऽस्या एत-देवं तुरीयं दर्शतं पदं वेद . सैषा त्रिपादा उक्ता यात्रैलोक्यत्रैविद्यप्राणाद्यात्मिका गायत्री, एतस्मित् चतुर्थेतुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्त्तामूर्त्त-रसत्वादादित्यस्य, रसापाये हि वस्तु नीरसमप्रतिष्ठितंभवति यथा काष्ठादि दग्धसारं तद्वत् . तथा मूर्त्तामूर्त्तात्मकंजगत् . त्रिपदा गायत्री च आदित्यप्रतिष्ठिता तद्रूं-पत्वात् . सह त्रिभिः पदैः तद्धि तुरीयं पदं सत्येप्रतिष्ठितम् इत्यादि . तद्धि तुरीयपदाश्रयं सत्यंबले प्रतिष्ठितं किं? पुनस्तद्बलमित्याह प्राणो वैबलम् तस्मिन् प्राणे बले, प्रतिष्ठित’ सत्यं तथाचोक्तेसूत्रे,“ तदोतञ्च प्रोतञ्चेति” तस्मात् बले सत्यं प्रति-ष्ठितमित्यादि . सैषा गायत्री प्राणः अतः गायत्र्यांजगत् प्रतिष्ठितम् यस्मिन् सर्वे देवाः एकीभवन्ति सर्वे-[Page2581-a+ 38] वेदाः, कर्माणि फलानि च सैषा गायत्री प्राणरूपासती जगत आत्मा सा हैषा गयांस्तत्रे त्रातवती, के?पुनर्गयाः, एते प्राणाः वागादयो वै गयाः शब्दकरणात्ताय् तत्रे, सैषा गायत्री तत् यस्मात् गयांस्तत्रेतस्माद्गायत्री नाम गयत्राणात् गावत्रोति प्रथिता .स आचार्य्य उपनीय माणवकमष्टवर्षं यामेव अमूंसावित्रीं सवितृदेबताकाम् अन्वाह पच्छः अर्द्धशःसमस्ताञ्च एषैव सा साक्षात् प्राणो जगतः आत्मा माण-वकाय समर्पिता इहेदानीं नान्या सः आचार्य्यः यस्मैमाणवकाय अन्वाह अनुवक्ति तस्य माणबक्तस्य गयान्प्राणान् त्रायते नरकादिपतनात्” भा०छान्दोग्योपनिषदि गायत्र्या अन्यथा निवचनपूर्वकंषडक्षरपादत्वेन चतुष्प-दत्वं वागादिरूपेण ध्यातव्यत्वम्स्वप्रतिपाद्यब्रह्मात्मद्वारा सर्व्वात्मकत्वञ्च दर्शितम् .“ गायत्री वा इदं सर्वं भूतं यदिदं किञ्च . वाग्वैगायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च .या वै सा गायत्रीयं वाव सा येयं पृथिवी अस्पांहीदं सर्वं भूतं प्रतिष्ठितम् एतामेव नातिशीयते . यावै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम्अस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते .यद्वैतत् पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः-पुरुषे हृदयम् अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेवनातिशीयन्ते . सैषा चतुष्पदा षड्विधा गायत्री तदे-तदृचाभ्यनूक्तम् . तावानस्य महिमा ततोज्यायांश्चपुरुषः . पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीति .” छ० उप० .“ यत एवमतिशयफलैषा व्रह्मविद्या अतःसा प्रकारान्तरेणापि वक्तव्येति गायत्री वा इत्या-रभ्यते . गायत्रीद्वारेण चोच्यते ब्रह्म, सर्व-विशेषरहितस्य नेति नेतीत्यादिविशेषप्रतिषेधनम्यस्यदुर्बीधत्वात् सत्स्वनेकेषु छन्दःसु गायत्र्या एव ब्रह्मज्ञान-द्वारतयोपादानं प्राधान्यात् .” (इत्युपक्रम्य किञ्चि-दुक्त्वोक्तम्)“ गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिवहित्वा गुरुतरां गायत्रीं ततोऽन्यत् गुरुतर न प्रति-पद्यते ययोक्तं ब्रह्मापीति तस्यामत्यन्तगौरवस्य प्रसिद्ध-त्वात् अतो गायत्रीमुखेनैव ब्रह्मोच्यते . गायत्री वैइत्यवधारणार्थो वैशब्दः . इदं सर्वं भूतं प्राणिजातंयत किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येवतस्याश्छन्दोमात्रायाः सर्वभूतात्मत्वमनुपपन्नमिति गायत्री-[Page2581-b+ 38] कारणं वाचं शब्दरूपामापादयति गायत्रीं, वाग्वेगायत्रीति वाग्वा इदं सर्वं भूतम् गायति च शब्दायते(असौ गौरसाबश्वः) इति त्रायते च रक्षति“ अमुष्मात्मा भैषीः किं? ते भयमुत्थितमित्यादि” सर्वतो भयान्निवर्त्त्यमानो वाचा त्रातः स्यात् . यत् वाक्, भूतंगायति च त्रायते च गायत्र्येव तद् गायति च त्रायतेच वाचोऽनन्यत्वात् गायत्र्याः, गानात् त्राणाच्च गायत्री-त्वम् . या वै सैवंलक्षणा सर्वभूतरूपा गायत्री इयंवाव सा येयं पृथिवी, कथं? पुनरियं पृथिवीगायत्रीत्युच्यते? सर्वभूतसम्बन्धात् कथं सर्वभूत-सम्बन्धः? तस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरंजङ्गतञ्च भूतं प्रतिष्ठितम् एतामेव पृथिवीं नातिशीयते,नातिवर्त्तते इत्येतत् . यथा गानत्राणाभ्यां भूतसम्बन्धोगायत्र्या एवं भूतप्रतिष्ठानात् भूतसम्बन्धाद्वा पृथिवीअतो गायत्री पृथिबी . या वै सा पृथिवी गायत्रीयंवाव सा इदमेव, तत् किम्? यदिदमस्मिन् पुरुषेकार्य्यकारणसङ्घाते जीवति शरीरं, पार्थिवत्वा-च्छरीरस्य गायत्रीत्वमुच्यते? अस्मिन् हीमे प्राणाःभूतशब्दवाच्याः प्रतिष्ठिताः . अतः पृथिवीवत् भूत-शब्दवाच्य--प्राणप्रतिष्ठानात् शरीरं गायत्री एतदेबयस्माच्छरीरं नातिशीयन्ते प्राणाः . यद्धैतत् पुरुषेशरीरं गायत्री वाव तत् यदिदमस्मिन् अन्तर्मध्येपुरुषे हृदयं पुण्डरीकाख्यमेतत् गायत्री कथम्?इत्याह अस्मिन् हीमे प्राणाः प्रतिष्ठिताः अतः शरीर-वत् गायत्री हृदयम् एतदेव नातिशीयन्ते“ प्राणोहि पिता प्राणो माता” “ अहिंसन् सर्वाभूतानीति” श्रुतेः भूतशब्दवाच्याः प्राणाः . सैषा चतुष्पदा षड-क्षरपादच्छन्दोरूपा सती भवति गायत्री षड्विधावाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधाभवति . (किञ्चिदतीत्योक्तम्) तदेतस्मिन्नर्थे एतद्गाय-त्र्याख्य ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचापिमन्त्रेण अभ्यनूक्तं प्रकाशितम् . तावान् अस्य गाय-त्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारःयावान् चतुष्पाद् षड्विधश्च ब्रह्मणो विकारः, पादःगायत्रीति व्याख्यातः . अतस्तस्माद्विकारलक्षणात् गाय-त्र्याख्यात् ततो ज्यायान् महत्तरश्च परमार्थसत्यरूपोऽ-विकारः पुरुषः सर्वपूरणात पुरिशयनाच्च . तस्यास्यपादः सर्वा सर्वाणि भतानि तेजोऽबन्नादीनि सस्थावर-[Page2582-a+ 38] जङ्गमानि . त्रिपाद् त्रयः पादा अस्य सोऽयं त्रिपाद्अमृतं पुरुषाख्यं समस्तस्य गायत्रात्मकस्य दि{??}ओतनवतिस्वात्मन्यवस्थितमित्यर्थः” शा० भा० . मातृतोजन्मवतामपिसावित्र्या द्वितीयजन्माधानात् द्विजानां द्विजत्वम् .यज्जन्मैव हि सकलपुरुषार्थहेतुरिति मन्वादिशास्त्रेप्रसिद्धम् . यथा, मनुः“ आचार्य्यस्त्रस्य यां जातिंविधिवद्वेदपारगः . उत्पादयति सावित्री सा सत्यासाऽजराऽमरा . तत्र यद् व्रह्मजन्मास्य मौर्ञ्जवन्धन-चिह्नितम् . तत्रास्य माता सावित्री पिता चाचार्य्यउच्यते” . यद्यपि परमेश्वरः सर्वत्रामिन्नरूपतया वर्त्त-मानस्तथापि समुपासने एव विशिष्टफलप्रदः नान्यथाइदमपि दृष्टान्ततया योगियाज्ञवल्क्येन कथितम्“ गवां सर्पिः शरीरस्थं न करात्यङ्गपोषणम् . निःसूतंकर्म्मसंयुक्तं पुनस्तासां तदौषधम् . एवं सहि शरी-रस्थः सर्पिर्वत् परमेश्वरः . विना चोपसनादेव नकरोति हितं नृषु” . गायत्र्याश्च स्ववाच्यब्रह्मणासहाभेदात् प्राशस्त्यमाह व्यासः“ न भिन्नां प्रति-पद्येत गायत्रीं ब्रह्मणा सह . सोऽहमस्मीत्युपासीतविधिना येन केनचित्” .“ गायत्रीस्थभर्गपदप्रतिपाद्यईश्वरः अहं जीवरूपोऽस्मि भवामीति जीवेश्वरयो-रहङ्कारप्रतिविम्बितत्वोपाधिरहितेन चिद्रूपेणैक्यं भाव-यन् उपासीत” इति रघुनन्दनः . तत्र सत्स्वपि पर-मव्रह्मण उपासनाया बहुषूपायेषु गायत्र्येष तदुप्रा-सनायाः प्रधानोपायः इति प्राग्दर्शितेषु शास्त्रेषुप्रसिद्धम् . विशेषतः, गायत्र्यर्थः परं ब्रह्म एतदर्थमपिअनेन मन्त्रेणैव उपासना श्रेयस्करी“ प्रणव-व्याहृतिभ्याञ्च गायत्र्या त्रितयेन च . उपास्यं परमंब्रह्म आत्मा यत्र प्रतिष्ठितः . वाच्यः सईश्वरः प्रोक्तोवाचकः प्रणवः स्मृतः . वाचकेऽपि च विज्ञाते वाच्यएव प्रसीदति” योगीश्वरवाक्येन तथाभिधानात् .(“ गायत्र्याः २४ चतुर्विंशत्यक्षराणां यथा भावनाकार्य्या, तथा ब्राह्मणसर्वस्वे विष्णुधर्मोत्तरे दर्शितंयथा“ कर्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्दियाणि च .पञ्च बुद्धीन्द्रियार्थाश्च भूतानां चैव पञ्चकम् . मनोवुद्धि-स्तथैवात्मा अव्यक्तञ्च यदुत्तमम् . चतुर्विंशतिरेतानिगायत्र्या अक्षराणि च . प्रणवं पुरुषं विद्धि सर्वगंपञ्चविंशकम् .” अनेन पञ्चविंशतितत्त्वरूपतया सप्रण-वगायत्र्यक्षराणां ध्येयतोक्ता . तत्र प्रत्यक्षरं देवताभेद-[Page2582-b+ 38] माह योगियाज्ञवल्क्यः .“ अक्षरणान्तु दैवत्यं सम्प्र-वक्ष्याम्यतः परम् . आग्नेयं (तत्) प्रथमं ज्ञेयं वाय-व्यञ्च (स) द्वितीयकम् . तृतीयं (वि) सूर्य्यदैवत्यं चतुर्थं(तुः) वैद्युतं तथा . पञ्चमं (व) यमदैवत्यं वारुणं(रे) षष्ठमुच्यते . बार्हस्पत्यं सप्तमन्तु (ण्) पार्ज्जन्यम-ष्टमं (यम्) विदुः . ऐन्द्रं तु नवमं (भ) ज्ञेयं गान्धर्वंदशमं (र्गः) तथा . पौष्णमेकादशं (दे) प्रोक्तं मैत्राव-रुणं द्वादशम् (ब) . त्वाष्ट्रं त्रयोदशं (स्य) ज्ञेयं वासवन्तु चतुर्द्दशम् (धी) . मारुतं पञ्चदशकं (म) सौम्यंषोडशकं (हि) स्मृतम् . सप्तदशं (धि) त्वाङ्गिरसंवैश्वदेवमतः परम् . (यः) . आश्विनञ्चैकोनविंशं (यः)प्रजापत्यन्तु विंशकम् (नः) . सर्वदेषमयं प्रोक्तमेकविंश(प्र) मतः परम् . रौद्रं द्वाविंशकं (च) प्रोक्तम् त्रयो-विंशन्तु (द) ब्राह्मकम् . वैष्णवन्तु (यात्) चतुर्विंशमेताह्यक्षरदेवताः . जप्यकाले तु संस्मृत्य तासां सायुज्यतांव्रजेत्” .“ तस्याश्च वेदसारता--नानाशास्त्रे दर्शिता यथा(“ अष्टादशसु विद्यासु मीमांसाऽतिगरोयसी . ततो-ऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च . ततोऽपिधर्भशास्त्राणि तेभ्यो गूर्वी श्रुतिर्द्विज . ततोऽप्युपनि-षच्छ्रेष्ठा गायत्री च ततोऽधिका . दुर्लभा सर्वमन्त्रेषुगायत्री प्रणवान्विता . न गायत्र्यधिकं किञ्चित्त्रयीषुपरिविद्यते . न गायत्रीसमो मन्त्रो न काशी सदृशीपुरी . न विश्वेशसमं लिङ्गं सत्यं सत्यं पुनः पुनः .गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः . गायन्तंत्रायते यस्माद्गायत्रीति प्रगीयते . वाच्यवाचकसम्बन्धोगायत्र्याः सवितुर्द्वयोः . वाच्योऽसौ सविता साक्षा-द्गायत्री वाचिका परा . प्रभावेनैव गायत्र्याः क्षत्रियः कौशिको वशी . राजर्षित्वं परित्यज्य ब्रह्मर्षि-पदमीयिवान् . सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने .किं किं न दद्याद्गायत्री सम्यगेवमुपासिता . न ब्रा-ह्मणो वेदपाठान्न शास्त्रपठनादपि . देव्यास्त्रिकालमभ्या-सात्ब्राह्मणः स्याद् द्विजोऽन्यथा . गायत्र्येव परोविष्णुर्गायत्र्येव परः शिवः . गायत्र्येव परो ब्रह्मागायत्र्येव त्रयी यतः” काशी० .( इत्थं बहुविधशास्त्रे गायत्री सर्वेषां वेदानां सारां-शतया सर्वाभीष्ट हेतुतया च प्रसिद्धा . यदज्ञाने ब्रा-ह्मण्यहानिर्भवति . सेयं वेदत्रयेऽपि सुमानरूपा” .[Page2583-a+ 38] मनुः“ अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः . वेदत्रयान्निरदुहत्भूर्भुवः स्वरितीति च! . त्रिभ्य एव तु वेदेभ्यःपादं पादमदूदुहत्” . मनुयमवृद्धवविष्ठाः“ ओङ्का-रपूर्विकास्तिस्रो महाव्याहृतयस्तथा . त्रिपदा चैव गा-यत्री विज्ञेयं ब्रह्मणो मुखम् .” जपेदित्यनुकृष्य छन्दो-गपरिशिष्टम्“ सर्वेषां वेदानां गुह्योपनिषत्सारभूतांततो गायत्रींम् .” योगियाज्ञवल्क्यः“ गायत्रोञ्चैववेदांश्च तुलया समतोलयन् . वेदा एकत्र साङ्गास्तुगायत्री चैकतः स्थिता .” स एव“ सारभूतास्तुवेदानां गुह्योपनिषदो मताः . ताभ्यः सारस्तु गायत्रीतिस्रो व्याहतयस्तथा .” स एव“ ओङ्कारपूर्विका-स्तिस्रो गायत्रीं यश्च विन्दति . चरितब्रह्मचर्य्यश्च सवै श्रोत्रिय उच्यते .” स एव“ एतया ज्ञातया सर्वंवाङ्मयं विदितं भवेत् . उपासितं भवेत्तेन विश्वंभुवनसप्तकम् .” स एव“ एवं यस्तु विजानातिगायत्रीं ब्राह्मणस्तु सः . अन्यथा शूद्रधर्मा स्याद् वेदानामपि पारगः .” स एव“ अज्ञात्वा चैव गायत्रींब्राह्मण्यादेव हीयते . अपवादेन संयुक्तो भवेत् श्रुतिनिदर्शनात् .” कौर्मम्“ क्रियाहीनस्य मूर्खस्य महा-रोगिण एव च . यथेष्टाचरणस्याहुर्मरणान्तमशौच-कम् .” मूर्खस्य सार्थगायत्रीरहितस्येति शुद्धितत्त्वे रघु-नन्दनः . गायत्रीरहितस्येत्यन्ये . तस्याः सन्ध्यारूप-तया उपस्यतापि यथाह, योगियाज्ञवल्क्यः“ यासन्ध्या सैव गायत्री द्विधा भूता व्यवस्थिता . सन्ध्याउपासिता येन विष्णुस्तेन उपासितः .” व्यासः“ गायत्री नाम पूर्वाह्णे सावित्री मध्यमे दिने . सरस्वतीच सायाह्ने सैव सन्ध्या त्रिषु स्मृता . प्रतिग्रहान्नदो-षाच्च पातकादुपपातकात् . गायत्री प्रोच्यते तस्मात्गायन्तं त्रायते सदा . सवितृद्योतनात् सैव सावित्री परि-कीर्त्तिता . जगतः प्रसवितृत्वात् वागरूपत्वात् सरस्वती” .ऋष्यशृङ्गः“ सर्वात्मना हि या देवी सर्वभूतेषु संस्थिता .गायत्री मोक्षहेतुर्वै मोक्षस्थानमलक्षणम्” कूर्मपुराणम्“ गायत्री वेदजननी गायत्री लोकपावनी . न गायत्र्याःषरं जप्यमेतद्विज्ञानमुच्यते .” योगियाज्ञबल्क्यः“ गायत्री वेदजननी गायत्री पापनाशिनी . गायत्र्यास्तुपरं नास्ति दिवि चेह च पावनम् . हस्तत्राणप्रदादेवी पततां नरकार्णवे . तस्मात्तामभ्यसेन्नित्यं ब्राह्मणा-ऽनुदये शुचिः . गायत्रीं निरतं हव्यकव्येषु विनियोज-[Page2583-b+ 38] येत् . तस्मिन्न तिष्ठते पापमब्विन्दुरिव पुष्करे .” स एव“ गायत्र्याः पदमर्द्धन्तु ऋचोऽर्द्धमृच एव वा . ब्रह्म-हत्यासुरापाणं गुरुदाराभिमर्षणम् . यच्चान्यत् दुष्कृतंसर्वं पुनातीत्याह वै मनुः .” स एव“ यज्ञदानरतो विद्वान्साङ्गवेदस्य पाठकः . गायत्रीध्यानपूतस्य कलां नार्हतिषोडशीम् .” वृहद्बिष्णुः“ एतयर्चा विसंयुक्ता कालेच क्रियया स्वया . विप्रक्षत्रियविड्योनिर्गर्हणीया तुसाधुषु .” अग्निपुराणम्“ गायत्रीं जपते यस्तु द्वौ-कालौ ब्राह्मणः सदा . असत्प्रतिग्रहीतापि स यातिपरमां गतिम् .” गायत्र्याश्च सर्वछन्दसां प्रधानत्वात्“ गायत्रीछन्द-सामपि” गीतायां भगवद्विभूतित्वमुक्तम् . ३ खदिरवृक्षेअमरः . खदिरस्य च“ सा गायत्री सोममा-हरत्” इत्युपक्रमे“ खदिरेण सोममाचखाद” तस्मात् खदिर इति” शत० ब्रा० ६ . २ . ९ गायत्र्यासोमहरणेन तत्पाने साधनत्वाद् गायत्रीत्वम् . गायत्रंगायत्रीसम्बन्धि सोमहरणमस्त्यत्र पानसाधनत्वेन गा-यत्र + इनि . गायत्रिन् इत्यपि तत्रार्ते वैद्यकम्“ उभेहरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समा-नम्” सुश्रुतः .“ वह्निगायत्रिणां तथेति” वैद्यकात् इन-न्तोऽपि तत्रार्थे पु० भानुदीक्षितः . पुंसाहचर्य्यात् अमरवा-क्यस्य पुंलिङ्गपरतौचित्यात् तथात्वम् .“ गायत्री खदिरेस्त्री स्यात्” इति रभसोक्तेः“ गायत्री द्रुपदादेवीछन्दोभित्खदिरेषु च” कोषान्तराच्च स्त्रीत्वम् ङीबन्तता च .{??}यत्र्या ऋचोपास्यायां ४ देवतायाम् . सा च एकापिप्रातरादिकालभेदेन गायत्री--स्वावित्री सरस्वतीति--नामत्र-ययुता तत्र प्रातरुपास्या गायत्रीति संज्ञाऽनुपदमु-क्तम् . ५ दुर्गायां च“ गायनाद्गमना

pratipadप्रतिपद् {@प्रतिपद्@}¦ स्त्री प्रतिपद्यते उपक्रम्यते पक्षोमासो वाऽनया प्रति +पद--करणे क्विष . पक्षयोः प्रथमायां ...
31/05/2016

pratipad
प्रतिपद् {@प्रतिपद्@}¦ स्त्री प्रतिपद्यते उपक्रम्यते पक्षोमासो वाऽनया प्रति +पद--करणे क्विष . पक्षयोः प्रथमायां १ तिथौ तिथिशब्देतत्स्वरूपं ३२९१ पृ० दर्शित कर्मभेदे तत्कालव्यवस्था च३२९२ पृ० दर्शिता . २ द्रनडवाद्ये त्रिका० . भावे सम्प०क्विप् . ३ ज्ञानं ४ उपक्रमे कालमा० तच्छब्दस्योपक्रमा-र्थत्वमुक्तं यथा“ तत्र प्रतिपच्छब्द उपक्रमे वर्त्तते . चान्द्रः पक्षो मासोवा प्रतिपद्यते प्रारभ्यते यस्यां तिथौ सा तिथिः प्रति-पत् . प्रारम्भवाचित्वं प्रतिपच्छब्दस्य बहुषु ब्राह्मा-खानुवाक सूत्रेषु प्रयोनादवगम्यते ताथा च श्रुतिः“ आत्वारथं यथोतय इदं वसोमृतमन्ध इति मरुत्वतीयस्यप्रतिपदनुचराविति” . अयमर्थः मरुत्वतीयं नाम {??} कञ्चि-च्छस्त्रम् . तस्यात्वारथमित्ययं मन्त्रः प्रतिपत् प्रथमपाठ्यः . इदं वसोमृतमन्ध इत्ययं मन्त्रोनुचरः पश्चात्पाठ्य इति . तथा तैत्तिरीया आश्वमेधब्राह्मणे आम-नन्ति .“ पवस्व वाजसातय इत्यनुष्टुप् प्रतिपद्भवतीति” तथा त एव दर्शपूर्णमासब्राह्मणे पठन्ति“ सामिधेनीरनु-वक्ष्यन्ते ताव्याहृतीः पुरस्वाहृध्यात् ब्रह्मेव प्रतिपदंकुरुतः” इति .तत्तिथौ वह्नेर्जन्म यथोक्तं वराहपु०“ देवानामथ यक्षाणां नन्धर्वाणाञ्च सत्तम! क्षादौ प्रति-पदो येन त्वमुत्पन्नोऽसि {??} . त{??}[Page4447-a+ 38] सभविष्यन्ति देवताः . अतस्ते प्रतिपन्नाम तिथिरेषा भवि-ष्यति” . ४ बहिष्पवमानस्तोत्रस्य प्रथमस्तुतौ ताण्ड्य० ब्रा०४ . २ . १५ यथा“ कवन्ते वाजसातये सोमाः सहस्रपाजस इति संहस्रवती प्रतिपत्कार्य्या” .“ प्रतिपद्यते प्रक-म्यते बहिष्पवमानस्तोत्रे एषा प्रतिपत् सा सहस्रवतीसहस्रशब्दोपेता एषा कार्य्यां” भा० . वा टाप् तत्रार्थे

🌹🌹🌹🌹श्रीगणेशाय नमः 🌹🌹🌹🌹🌷🌷🌷श्रीशक्तिशिवावूचतुः🌷🌷🌷नमस्ते गणनाथाय गणानां पतये नमः ।भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १...
31/05/2016

🌹🌹🌹🌹श्रीगणेशाय नमः 🌹🌹🌹🌹
🌷🌷🌷श्रीशक्तिशिवावूचतुः🌷🌷🌷
नमस्ते गणनाथाय गणानां पतये नमः ।
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥

वरदाभयहस्ताय नमः परशुधारिणे ।
नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥

अनामयाय सर्वाय सर्वपूज्याय ते नमः ।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४॥

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५॥

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ।
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६॥

विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७॥

किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् ।
तेन तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८॥

तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ।
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९॥

भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् ।
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १०॥
🌹🌹🌹🌹गणानांपतये नमः🌹🌹🌹🌹

Address

Thane
400615

Alerts

Be the first to know and let us send you an email when संस्कृतम् posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to संस्कृतम्:

Share

Category